सूर्य कवच
🕉️

सूर्य कवच

Surya KavachSurya Kavach is a powerful mantra dedicated to Surya, the Sun God. It describes divine protection, offering blessings of health and fortune to devotees.
🕉
याज्ञवल्क्य उवाच: श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् ॥1॥दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् । ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥2॥ शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः । नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥3॥ घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः। जिह्वां मे मानदः पातु कंठं मे सुरवंदितः ॥4॥ स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः । पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः ॥5॥ सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके । दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥6॥ सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः । स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति ॥7॥ ॥ इति सूर्य कवच सम्पूर्णम् ॥ आरोग्य एवम् विजय प्राप्त्यर्थ हेतु सूर्य भगवान का श्री सूर्य कवच।