श्री सूर्यमण्डलाष्टकम्
श्री सूर्यमण्डलाष्टकम्
A-
A
A+
हि
EN
🕉️
श्री सूर्यमण्डलाष्टकम्
Shri Surya Mandala Ashtakam
Shri Surya Mandala Ashtakam is a mantra dedicated to Surya, the Sun God. It praises his all-seeing eye and divine form, revered by gods and sages alike.
Aa
Reading
शेयर करें
पसंदीदा में जोड़ें
🕉
॥ श्रीसूर्यमण्डलाष्टकम् ॥नमः सवित्रे जगदेकचक्षुषेजगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणेविरञ्चिनारायणशङ्करात्मने ॥1॥ यन्मण्डलं दीप्तिकरं विशालंरत्नप्रभं तीव्रमनादिरूपम्। दारिद्र्यदुःखक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम् ॥2॥ यन्मण्डलं देवगणैः सुपूजितंविप्रैः स्तुतं भावनमुक्तिकोविदम् । तं देवदेवं प्रणमामि सूर्यंपुनातु मां तत्सवितुर्वरेण्यम् ॥3॥ यन्मण्डलं ज्ञानघनं त्वगम्यंत्रैलोक्यपूज्यं त्रिगुणात्मरूपम् । समस्ततेजोमयदिव्यरूपंपुनातु मां तत्सवितुर्वरेण्यम् ॥4॥ यन्मण्डलं गूढमतिप्रबोधंधर्मस्य वृद्धिं कुरुते जनानाम् । यत्सर्वपापक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम् ॥5॥ यन्मण्डलं व्याधिविनाशदक्षंयदृग्यजुः सामसु संप्रगीतम् । प्रकाशितं येन च भूर्भुवः स्वःपुनातु मां तत्सवितुर्वरेण्यम् ॥6॥ यन्मण्डलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धसंघाः । यद्योगिनो योगजुषां च संघाःपुनातु मां तत्सवितुर्वरेण्यम् ॥7॥ यन्मण्डलं सर्वजनेषु पूजितंज्योतिश्च कुर्यादिह मर्त्यलोके । यत्कालकल्पक्षयकारणं चपुनातु मां तत्सवितुर्वरेण्यम् ॥8॥ यन्मण्डलं विश्वसृजांप्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् । यस्मिञ्जगत्संहरतेऽखिलचपुनातु मां तत्सवितुर्वरेण्यम् ॥9॥ यन्मण्डलं सर्वगतस्य विष्णोरात्मापरं धाम विशुद्धतत्त्वम् । सूक्ष्मान्तरैर्योगपथानुगम्यंपुनातु मां तत्सवितुर्वरेण्यम् ॥10॥ यन्मण्डलं वेदविदो वदन्तिगायन्ति यच्चारणसिद्धसंघाः । यन्मण्डलं वेदविदः स्मरन्तिपुनातु मां तत्सवितुर्वरेण्यम् ॥11॥ यन्मण्डलं वेदविदोपगीतंयद्योगिनां योगपथानुगम्यम् । तत्सर्ववेदं प्रणमामि सूर्यंपुनातु मां तत्सवितुर्वरेण्यम् ॥12॥ मण्डलाष्टतयं पुण्यंयः पठेत्सततं नरः । सर्वपापविशुद्धात्मासूर्यलोके महीयते ॥13॥ ॥ इति श्रीमदादित्यहृदये मण्डलाष्टकं सम्पूर्णम् ॥