श्री शिवमङ्गलाष्टकम्
श्री शिवमङ्गलाष्टकम्
A-
A
A+
हि
EN
🕉️
श्री शिवमङ्गलाष्टकम्
Shiv Mangalashtakam
भवाय चन्द्रचूडाय निर्गुणाय गुणात्मने । कालकालाय रुद्राय नीलग्रीवाय मङ्गलम् ॥ १ ॥
Aa
Reading
शेयर करें
पसंदीदा में जोड़ें
🕉
वृषारूढाय भीमाय व्याघ्रचर्माम्बराय च । पशूनां पतये तुभ्यं गौरीकान्ताय मङ्गलम् ॥ २ ॥ भस्मोद्धूलितदेहाय व्यालयज्ञोपवीतिने । रुद्राक्षमालाभूषाय व्योमकेशाय मङ्गलम् ॥ ३ ॥ सूर्यचन्द्राग्निनेत्राय नमः कैलासवासिने । सच्चिदानन्दरूपाय प्रमथेशाय मङ्गलम् ॥ ४ ॥ मृत्युंजयाय सांबाय सृष्टिस्थित्यन्तकारिणे । त्र्यंबकाय सुशान्ताय त्रिलोकेशाय मङ्गलम् ॥ ५ ॥ गंगाधराय सोमाय नमो हरिहरात्मने । उग्राय त्रिपुरघ्नाय वामदेवाय मङ्गलम् ॥ ६ ॥ सद्योजाताय शर्वाय दिव्यज्ञानप्रदायिने । ईशानाय नमस्तुभ्यं पञ्चवक्त्राय मङ्गलम् ॥ ७ ॥ सदाशिवस्वरूपाय नमस्तत्पुरुषाय च । अघोरायच घोराय महादेवाय मङ्गलम् ॥ ८ ॥ मङ्गलाष्टकमेतद्वै शंभोर्यः कीर्तयेद्दिने । तस्य मृत्युभयं नास्ति रोगपीडाभयं तथा ॥ ९ ॥