शिव मानस पूजा
🕉️

शिव मानस पूजा

Shiv Manas PoojaA seat of jewels, a bath of snow water, payasam in a golden bowl: every offering in this stotra is made to Shiva in the mind alone, and asked to be accepted.
🕉
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥1सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् । शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥2 छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा । साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥3 आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः । सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥4 किं वा वानेन धनेन वाजिकरिभी प्राप्तेन राज्येन किम । किं वा पुत्रकलत्र पशुभिर देहन गेहेन किम । ज्ञातवेत तत्क्षण भंगुरं सपदि रे त्याज्यं मनो दुरत: । स्वामार्थम गुरु वाक्यतो भज भज श्री पार्वती बल्भम् ॥5