मंत्र: निर्वाण षट्कम
🕉️

मंत्र: निर्वाण षट्कम

Nirvana Shatakamपरंपरागत श्रेय: आदि शंकराचार्य।
🕉
मनो-बुद्धि-अहंकार चित्तादि नाहं न च श्रोत्र-जिह्वे न च घ्राण-नेत्रे । न च व्योम-भूमी न तेजो न वायु चिदानंद-रूपं शिवो-हं शिवो-हं ॥ १॥न च प्राण-संज्ञो न वै पञ्च-वायु:
न वा सप्त-धातुर्न वा पञ्च-कोष: । न वाक्-पाणी-पादौ न चोपस्थ पायु: चिदानंद-रूपं शिवो-हं शिवो-हं ॥ २ ॥
न मे द्वेष-रागौ न मे लोभ-मोहौ मदे नैव मे नैव मात्सर्य-भाव: । न धर्मो न चार्थो न कामो न मोक्ष: चिदानंद-रूपं शिवो-हं शिवो-हं ॥ ३ ॥
न पुण्यं न पापं न सौख्यं न दु:खं न मंत्रो न तीर्थं न वेदा न यज्ञा: । अहं भोजनं नैव भोज्यं न भोक्ता चिदानंद-रूपं शिवो-हं शिवो-हं ॥ ४ ॥
न मे मृत्यु न मे जातिभेद: पिता नैव मे नैव माता न जन्मो । न बन्धुर्न मित्र: गुरुर्नैव शिष्य: चिदानंद-रूपं शिवो-हं शिवो-हं ॥ ५॥
अहं निर्विकल्पो निराकार रूपो विभुत्त्वाच्च सर्वत्र सर्वेन्द्रियाणां । सदा मे समत्त्वं न मुक्तिर्न बंध: चिदानंद रूपं शिवो-हं शिवो-हं॥ ६॥
मंत्र का हिन्दी रूपांतरण भजन: ना मन हूँ ना बुद्धि ना चित अहंकार