नन्दा व्रत विधान - शिवस्तुति
🕉️

नन्दा व्रत विधान - शिवस्तुति

Nanda Vrat Vidhan Shiv StutiThe Nanda Vrat Vidhan Shiv Stuti is a mantra praising Lord Shiva as the supreme being, the formless witness, and the ultimate essence of the universe.
🕉
देवा ऊचुः । नमो भगवते तुभ्यं यत एतच्चराचरम् । पुरुषाय महेशाय परेशाय महात्मने ॥ ३६॥आदिबीजाय सर्वेषां चिद्रूपाय पराय च । ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ॥ ३७॥ य इदं प्रतिपञ्च्येदं येनेदं विचकास्ति हि । यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्नतः ॥ ३८॥ योऽस्मात्परस्माच्च परो निर्विकारी महाप्रभुः । ईक्षते यस्स्वात्मनीदं तं नताः स्म स्वयम्भुवम् ॥ ३९॥ अविद्धदृक् परः साक्षी सर्वात्माऽनेकरूपधृक् । आत्मभूतः परब्रह्म तपन्तं शरणं गताः ॥ २.१५.४०॥ न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् । कः पुनर्जन्तुरपरो ज्ञातुमर्हति वेदितुम् ॥ ४१॥ दिदृक्षवो यस्य पदं मुक्तसङ्गास्सुसाधवः । चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ॥ ४२॥ त्वज्जन्मादिविकारा नो विद्यन्ते केऽपि दुःखदाः । तथापि मायया त्वं हि गृह्णासि कृपया च तान् ॥ ४३॥ तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे । नमो गिरां विदूराय ब्रह्मणे परमात्मने ॥ ४४॥ अरूपायोरुरूपाय परायानन्तशक्तये । त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ॥ ४५॥ नम आत्मप्रदीपाय निर्वाणसुखसम्पदे । ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ॥ ४६॥ नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः । पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४७॥ क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे ॥ ४८॥ सर्वाध्यक्षाय महते मूलप्रकृतये नमः । पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४९॥ त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः । सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोऽस्तु ते ॥ २.१५.५०॥ त्रिलोककारणायाथापवर्गाय नमो नमः । अपवर्गप्रदायाशु शरणागततारिणे ॥ ५१॥ सर्वाम्नायागमानां चोदधये परमेष्ठिने । परायणाय भक्तानां गुणानां च नमोऽस्तु ते ॥ ५२॥ नमो गुणारणिच्छन्न चिदूष्माय महेश्वर । मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ॥ ५३॥ पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च । स्वप्रकाशाय नित्यायाऽव्ययायाजस्रसंविदे ॥ ५४॥ प्रत्यग्द्रष्ट्रेऽविकाराय परमैश्वर्यधारिणे । यं भजन्ति चतुर्वर्गे कामयन्तीष्टसद्गतिम् । सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ॥ ५५॥ एकान्तिनः कञ्चनार्थं भक्ता वाञ्छन्ति यस्य न । केवलं चरितं ते ते गायन्ति परमङ्गलम् ॥ ५६॥ अक्षरं परमं ब्रह्म तमव्यक्ताकृतिं विभुम् । अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ॥ ५७॥ अतीन्द्रियमनाधारं सर्वाधारमहेतुकम् । अनन्तमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ॥ ५८॥ हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः । नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ ५९॥ यथार्चिषोऽग्नेस्सवितुर्यान्ति निर्यान्ति वासकृत् । गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ॥ २.१५.६०॥ न त्वं देवोऽसुरो मर्त्यो न तिर्यङ्न द्विजः प्रभो । न स्त्री न षण्ढो न पुमान् सदसन्न च किञ्चन ॥ ६१॥ निषेधशेषस्सर्वं त्वं विश्वकृद्विश्वपालकः । विश्वलयकृद्विश्वात्मा प्रणतास्स्मस्तमीश्वरम् ॥ ६२॥ योगरन्धितकर्माणो यं प्रपश्यन्ति योगिनः । योगसम्भाविते चित्ते योगेशं त्वां नता वयम् ॥ ६३॥ नमोऽस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय । नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ॥ ६४॥ कदिन्द्रियाणां दुर्गेशानवाप्य परवर्त्मने । भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ॥ ६५॥ यच्छक्त्याहं धियाऽऽत्मानं हन्त वेद न मूढधीः । तं दुरत्ययमाहात्म्यं त्वां नतः स्मो महाप्रभुम् ॥ ६६॥ ब्रह्मोवाच । इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकास्सुराः । तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकन्धराः ॥ ६७॥ इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे नन्दाव्रतविधानशिवस्तुतिवर्णनं नाम पञ्चदशोऽध्यायः ॥ [श्रीशिवमहापुराण / रुद्रसंहिता / सतीखण्ड / 15 / 36-66]