बेलपत्र / बिल्वपत्र चढ़ाने का मंत्र
🕉️

बेलपत्र / बिल्वपत्र चढ़ाने का मंत्र

Belpatra MantraThe Belpatra Mantra is dedicated to Lord Shiva, highlighting the significance of offering bel leaves. It describes their purifying power and divine acceptance.
🕉
नमो बिल्ल्मिने च कवचिने च नमो वर्म्मिणे च वरूथिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुब्भ्याय चा हनन्न्याय च नमो घृश्णवे॥दर्शनं बिल्वपत्रस्य स्पर्शनम्‌ पापनाशनम्‌ । अघोर पाप संहारं बिल्व पत्रं शिवार्पणम्‌ ॥ त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुधम्‌ । त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम्‌ ॥ अखण्डै बिल्वपत्रैश्च पूजये शिव शंकरम्‌ । कोटिकन्या महादानं बिल्व पत्रं शिवार्पणम्‌ ॥ गृहाण बिल्व पत्राणि सपुश्पाणि महेश्वर । सुगन्धीनि भवानीश शिवत्वंकुसुम प्रिय ॥