श्री युगलाष्टकम् - कृष्ण प्रेममयी राधा
श्री युगलाष्टकम् - कृष्ण प्रेममयी राधा
A-
A
A+
हि
EN
🕉️
श्री युगलाष्टकम् - कृष्ण प्रेममयी राधा
Yugal Ashtakam - Krishna Premayi Radha
The Yugal Ashtakam mantra celebrates the divine love of Krishna and Radha, emphasizing their eternal bond and presence in each other's lives and hearts.
Aa
Reading
शेयर करें
पसंदीदा में जोड़ें
🕉
कृष्णप्रेममयी राधा राधाप्रेम मयो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥1॥कृष्णस्य द्रविणं राधा राधायाः द्रविणं हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥2॥ कृष्णप्राणमयी राधा राधाप्राणमयो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥3॥ कृष्णद्रवामयी राधा राधाद्रवामयो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥4॥ कृष्ण गेहे स्थिता राधा राधा गेहे स्थितो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥5॥ कृष्णचित्तस्थिता राधा राधाचित्स्थितो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥6॥ नीलाम्बरा धरा राधा पीताम्बरो धरो हरिः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥7॥ वृन्दावनेश्वरी राधा कृष्णो वृन्दावनेश्वरः । जीवनेन धने नित्यं राधाकृष्णगतिर्मम् ॥8॥