श्री बाल गोपाल अष्टकम्
🕉️

श्री बाल गोपाल अष्टकम्

Sri Balagopal AshtakamSri Balagopal Ashtakam is a mantra praising the playful and charming aspects of young Krishna. It vividly describes his divine pastimes and enchanting beauty.
🕉
तीर पयोनिधि वृक्ष निवासं हास्य कटाक्षज वंशीनिनादं श्यामल सुन्दर नित्य विलासं तं प्रणमामि च वालगोपालं ॥१॥गोधन पालक गोपकुमारं चन्दन चर्चित कुंकुमहारं नीलकलेवर शोभितहारं तं प्रणमामि च वालगोपालं ॥२॥ गोगिरिधारण मेदिनीत्राणं काम्य मनोरथ सिद्धि प्रदानं श्री यदुनन्दन हरमे पापं तं प्रणमामि च वालगोपालं ॥३॥ श्री मधुसूदन वाल्य चरित्रं काम्य मनोहर वेणुविचित्रं यशोदानन्दन सुन्दर कृष्णं तं प्रणमामि च वालगोपालं ॥४॥ भक्तिभारत अष्टकम केलि कुतुहलि छन्न विवादं केशव यामिनि पतित निनादं मल्लनिपातित मुष्टिकघातं तं प्रणमामि च वालगोपालं ॥५॥ कंस निषूदन केसिवनाशं ताल फलेषु च धेनुकानाशं देवकीनन्दन सुन्दरकृष्णं तं प्रणमामि च वालगोपालं ॥६॥ उज्ज्वल पङ्कज वाहुमृणालं लक्ष्मी सरस्वती सेवित पादं श्री यदुनन्दन हरमे पापं तं प्रणमामि च वालगोपालं ॥७॥ यादव माधव केशव सौरे श्रीधर सुन्दर कृष्ण मुरारे तारय तारय हरमे पापं तं प्रणमामि च वालगोपालं ॥८॥ ॥ इति श्री बालगोपालाष्टकम् सम्पूर्णम् ॥