संतान गोपाल स्तोत्रम्
🕉️

संतान गोपाल स्तोत्रम्

Santan Gopal StotraThe Santan Gopal Stotra is a mantra dedicated to Krishna, praising him as the divine child of Devaki, the beloved Gopala, and the lotus-eyed protector.
🕉
श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् । सुतसम्प्राप्तये कृष्णं नमामि मधुसूदनम् ॥1॥नमाम्यहं वासुदेवं सुतसम्प्राप्तये हरिम् । यशोदांकगतं बालं गोपालं नन्दनन्दनम् ॥2॥ अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम् । नमाम्यहं वासुदेवं देवकीनन्दनं सदा ॥3॥ गोपालं डिम्भकं वन्दे कमलापतिमच्युतम् । पुत्रसम्प्राप्तये कृष्णं नमामि यदुपुंगवम् ॥4॥ पुत्रकामेष्टिफलदं कंजाक्षं कमलापतिम् । देवकीनन्दनं वन्दे सुतसम्प्राप्तये मम ॥5॥ पद्मापते पद्मनेत्र पद्मनाभ जनार्दन । देहि में तनयं श्रीश वासुदेव जगत्पते ॥6॥ यशोदांकगतं बालं गोविन्दं मुनिवन्दितम् । अस्माकं पुत्रलाभाय नमामि श्रीशमच्युतम् ॥7॥ श्रीपते देवदेवेश दीनार्तिहरणाच्युत । गोविन्द मे सुतं देहि नमामि त्वां जनार्दन ॥8॥ भक्तकामद गोविन्द भक्तं रक्ष शुभप्रद । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥9॥ रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा । भक्तमन्दार पद्माक्ष त्वामहं शरणं गत: ॥10॥ देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥11॥ वासुदेव जगद्वन्द्य श्रीपते पुरुषोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥12॥ कंजाक्ष कमलानाथ परकारुरुणिकोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥13॥ लक्ष्मीपते पद्मनाभ मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥14॥ कार्यकारणरूपाय वासुदेवाय ते सदा । नमामि पुत्रलाभार्थं सुखदाय बुधाय ते ॥15॥ राजीवनेत्र श्रीराम रावणारे हरे कवे । तुभ्यं नमामि देवेश तनयं देहि मे हरे ॥16॥ अस्माकं पुत्रलाभाय भजामि त्वां जगत्पते । देहि मे तनयं कृष्ण वासुदेव रमापते ॥17॥ श्रीमानिनीमानचोर गोपीवस्त्रापहारक । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥18॥ अस्माकं पुत्रसम्प्राप्तिं कुरुष्व यदुनन्दन । रमापते वासुदेव मुकुन्द मुनिवन्दित ॥19॥ वासुदेव सुतं देहि तनयं देहि माधव । पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ॥20॥ डिम्भकं देहि श्रीकृष्ण आत्मजं देहि राघव । भक्तमन्दार मे देहि तनयं नन्दनन्दन ॥21॥ नन्दनं देहि मे कृष्ण वासुदेव जगत्पते । कमलानाथ गोविन्द मुकुन्द मुनिवन्दित ॥22॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ॥23॥ यशोदास्तन्यपानज्ञं पिबन्तं यदुनन्दनम् । वन्देsहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ॥24॥ नन्दनन्दन देवेश नन्दनं देहि मे प्रभो । रमापते वासुदेव श्रियं पुत्रं जगत्पते ॥25॥ पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव । अस्माकं दीनवाक्यस्य अवधारय श्रीपते ॥26॥ गोपालडिम्भ गोविन्द वासुदेव रमापते । अस्माकं डिम्भकं देहि श्रियं देहि जगत्पते ॥27॥ मद्वांछितफलं देहि देवकीनन्दनाच्युत । मम पुत्रार्थितं धन्यं कुरुष्व यदुनन्दन ॥28॥ याचेsहं त्वां श्रियं पुत्रं देहि मे पुत्रसम्पदम् । भक्तचिन्तामणे राम कल्पवृक्ष महाप्रभो ॥29॥ आत्मजं नन्दनं पुत्रं कुमारं डिम्भकं सुतम् । अर्भकं तनयं देहि सदा मे रघुनन्दन ॥30॥ वन्दे सन्तानगोपालं माधवं भक्तकामदम् । अस्माकं पुत्रसम्प्राप्त्यै सदा गोविन्दच्युतम् ॥31॥ ऊँकारयुक्तं गोपालं श्रीयुक्तं यदुनन्दनम् । कलींयुक्तं देवकीपुत्रं नमामि यदुनायकम् ॥32॥ वासुदेव मुकुन्देश गोविन्द माधवाच्युत । देहि मे तनयं कृष्ण रमानाथ महाप्रभो ॥33॥ राजीवनेत्र गोविन्द कपिलाक्ष हरे प्रभो । समस्तकाम्यवरद देहि मे तनयं सदा ॥34॥ अब्जपद्मनिभं पद्मवृन्दरूप जगत्पते । देहि मे वरसत्पुत्रं रमानायक माधव ॥35॥ नन्दपाल धरापाल गोविन्द यदुनन्दन । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥36॥ दासमन्दार गोविन्द मुकुन्द माधवाच्युत । गोपाल पुण्डरीकाक्ष देहि मे तनयं श्रियम् ॥37॥ यदुनायक पद्मेश नन्दगोपवधूसुत । देहि मे तनयं कृष्ण श्रीधर प्राणनायक ॥38॥ अस्माकं वांछितं देहि देहि पुत्रं रमापते । भगवन् कृष्ण सर्वेश वासुदेव जगत्पते ॥39॥ रमाहृदयसम्भार सत्यभामामन:प्रिय । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥40॥ चन्द्रसूर्याक्ष गोविन्द पुण्डरीकाक्ष माधव । अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ॥41॥ कारुण्यरूप पद्माक्ष पद्मनाभसमर्चित । देहि मे तनयं कृष्ण देवकीनन्दनन्दन ॥42॥ देवकीसुत श्रीनाथ वासुदेव जगत्पते । समस्तकामफलद देहि मे तनयं सदा ॥43॥ भक्तमन्दार गम्भीर शंकराच्युत माधव । देहि मे तनयं गोपबालवत्सल श्रीपते ॥44॥ श्रीपते वासुदेवेश देवकीप्रियनन्दन । भक्तमन्दार मे देहि तनयं जगतां प्रभो ॥45॥ जगन्नाथ रमानाथ भूमिनाथ दयानिधे । वासुदेवेश सर्वेश देहि मे तनयं प्रभो ॥46॥ श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥47॥ दासमन्दार गोविन्द भक्तचिन्तामणे प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥48॥ गोविन्द पुण्डरीकाक्ष रमानाथ महाप्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥49॥ श्रीनाथ कमलपत्राक्ष गोविन्द मधुसूदन । मत्पुत्रफलसिद्धयर्थं भजामि त्वां जनार्दन ॥50॥ स्तन्यं पिबन्तं जननीमुखाम्बुजं विलोक्य मन्दस्मितमुज्ज्वलांगम् । स्पृशन्तमन्यस्तनमंगुलीभि- र्वन्दे यशोदांकगतं मुकुन्दम् ॥51॥ याचेsहं पुत्रसन्तानं भवन्तं पद्मलोचन । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥52॥ अस्माकं पुत्रसम्पत्तेश्चिन्तयामि जगत्पते । शीघ्रं मे देहि दातव्यं भवता मुनिवन्दित ॥53॥ वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम । कुरु मां पुत्रदत्तं च कृष्ण देवेन्द्रपूजित ॥54॥ कुरु मां पुत्रदत्तं च यशोदाप्रियनन्दन । मह्यं च पुत्रसंतानं दातव्यं भवता हरे ॥55॥ वासुदेव जगन्नाथ गोविन्द देवकीसुत । देहि मे तनयं राम कौसल्याप्रियनन्दन ॥56॥ पद्मपत्राक्ष गोविन्द विष्णो वामन माधव । देहि मे तनयं सीताप्राणनायक राघव ॥57॥ कंजाक्ष कृष्ण देवेन्द्रमण्डित मुनिवन्दित । लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ॥58॥ देहि मे तनयं राम दशरथप्रियनन्दन । सीतानायक कंजाक्ष मुचुकुन्दवरप्रद ॥59॥ विभीषणस्य या लंका प्रदत्ता भवता पुरा । अस्माकं तत्प्रकारेण तनयं देहि माधव ॥60॥ भवदीयपदाम्भोजे चिन्तयामि निरन्तरम् । देहि मे तनयं सीताप्राणवल्लभ राघव ॥61॥ राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद । देहि मे तनयं श्रीश कमलासनवन्दित ॥62॥ राम राघव सीतेश लक्ष्मणानुज देहि मे । भाग्यवत्पुत्रसंतानं दशरथात्मज श्रीपते ॥63॥ देवकीगर्भसंजात यशोदाप्रियनन्दन । देहि मे तनयं राम कृष्ण गोपाल माधव ॥64॥ कृष्ण माधव गोविन्द वामनाच्युत शंकर । देहि मे तनयं श्रीश गोपबालकनायक ॥65॥ गोपबालमहाधन्य गोविन्दाच्युत माधव । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥66॥ दिशतु दिशतु पुत्रं देवकीनन्दनोsयं दिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम् । दिशति दिशतु श्रीशो राघवो रामचन्द्रो दिशतु दिशतु पुत्रं वंशविस्तारहेतो: ॥67॥ दीयतां वासुदेवेन तनयो मत्प्रिय: सुत: । कुमारो नन्दन: सीतानायकेन सदा मम ॥68॥ राम राघव गोविन्द देवकीसुत माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥69॥ वंशविस्तारकं पुत्रं देहि मे मधुसूदन । सुतं देहि सुतं देहि त्वामहं शरणं गत: ॥70॥ ममाभीष्टसुतं देहि कंसारे माधवाच्युत । सुतं देहि सुतं देहि त्वामहं शरणं गत: ॥71॥ चन्द्रार्ककल्पपर्यन्तं तनयं देहि माधव । सुतं देहि सुतं देहि त्वामहं शरणं गत: ॥72॥ विद्यावन्तं बुद्धिमन्तं श्रीमन्तं तनयं सदा । देहि मे तनयं कृष्ण देवकीनन्दन प्रभो ॥73॥ नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् । मुकुन्दं पुण्डरीकाक्षं गोविन्दं मधुसूदनम् ॥74॥ भगवन कृष्ण गोविन्द सर्वकामफलप्रद । देहि मे तनयं स्वामिंस्त्वामहं शरणं गत: ॥75॥ स्वामिंस्त्वं भगवन् राम कृष्ण माधव कामद । देहि मे तनयं नित्यं त्वामहं शरणं गत: ॥76॥ तनयं देहि गोविन्द कंजाक्ष कमलापते । सुतं देहि सुतं देहि त्वामहं शरणं गत: ॥77॥ पद्मापते पद्मनेत्र प्रद्युम्नजनक प्रभो । सुतं देहि सुतं देहि त्वामहं शरणं गत: ॥78॥ शंखचक्रगदाखड्गशांर्गपाणे रमापते । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥79॥ नारायण रमानाथ राजीवपत्रलोचन । सुतं मे देहि देवेश पद्मपद्मानुवन्दित ॥80॥ राम राघव गोविन्द देवकीवरनन्दन । रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ॥81॥ देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं श्रीश गोपबालकनायक ॥82॥ मुनिवन्दित गोविन्द रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥83॥ गोपिकार्जितपंकेजमरन्दासक्तमानस । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥84॥ रमाहृदयपंकेजलोल माधव कामद । ममाभीष्टसुतं देहि त्वामहं शरणं गत: ॥85॥ वासुदेव रमानाथ दासानां मंगलप्रद । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥86॥ कल्याणप्रद गोविन्द मुरारे मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥87॥ पुत्रप्रद मुकुन्देश रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥88॥ पुण्डरीकाक्ष गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥89॥ दयानिधे वासुदेव मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥90॥ पुत्रसम्पत्प्रदातारं गोविन्दं देवपूजितम् । वन्दामहे सदा कृष्णं पुत्रलाभप्रदायिनम् ॥91॥ कारुण्यनिधये गोपीवल्लभाय मुरारये । नमस्ते पुत्रलाभार्थं देहि मे तनयं विभो ॥92॥ नमस्तस्मै रमेशाय रुक्मिणीवल्लभाय ते । देहि मे तनयं श्रीश गोपबालकनायक ॥93॥ नमस्ते वासुदेवाय नित्यश्रीकामुकाय च । पुत्रदाय च सर्पेन्द्रशायिने रंगशायिने ॥94॥ रंगशायिन् रमानाथ मंगलप्रद माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥95॥ दासस्य मे सुतं देहि दीनमन्दार राघव । सुतं देहि सुतं देहि पुत्रं देहि रमापते ॥96॥ यशोदातनयाभीष्टपुत्रदानरत: सदा । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥97॥ मदिष्टदेव गोविन्द वासुदेव जनार्दन । देहि मे तनयं कृष्ण त्वामहं शरणं गत: ॥98॥ नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजायते । भगवंस्त्वत्कृपायाश्च वासुदेवेन्द्रपूजित ॥99॥ य: पठेत् पुत्रशतकं सोsपि सत्पुत्रवान् भवेत् । श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ॥100॥ जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् । ऎश्वर्यं राजसम्मानं सद्यो याति न संशय: ॥101॥ ॥ इति सन्तानगोपालस्तोत्रं सम्पूर्णम् ॥ संतान गोपाल स्तोत्रम् | पुत्र प्राप्ति मन्त्र