कारण षटकम्
🕉️

कारण षटकम्

Kaaran ShatakamThe Kaaran Shatakam mantra praises Lord Krishna as the ultimate cause of all causes. It celebrates his divine presence in life, thought, and spirit.
🕉
मम जीवनस्य जीवनम् उद्भाषितं नित्यशोभनम् त्वमेव देवं त्वमेव सर्वम् हृदि स्थिते सदा धारणम् हे कृष्ण हे माधव हे देव त्वम् सर्व कारणस्य कारणम् ॥ १॥ मम हृदयस्य हृदयम् सत्भाषितं नित्य सदयम् त्वमेव पूर्णं त्वमेव स्वर्णम् प्रेमम् आनंदं अद्भुदयम् हे कृष्ण हे माधव हे देव त्वम् सर्व कारणस्य कारणम् ॥ २ ॥ मम विचारस्य विचारम् सद्भाव हॄद्भाव संचारम् त्वमेव सत्यं त्वमेव नित्यम् स्मृति ज्ञानं सर्व आधारम् हे कृष्ण हे माधव हे देव त्वम् सर्व कारणस्य कारणम् ॥ ३ ॥ मम शरीरस्य आधारम् त्वमेक नित्य निराधारम् त्वमेव धर्मं त्वमेव कर्मम् सर्वसूत्रस्य सूत्रधारम् हे कृष्ण हे माधव हे देव त्वम् सर्व कारणस्य कारणम् ॥ ४ ॥ मम सर्व सुख दायकम् नित्यसुधा वेणु गायकम् त्वमेव कर्ता त्वमेव धर्ता माता पिता आत्मनायकम् हे कृष्ण हे माधव हे देव त्वम् सर्व कारणस्य कारणम् ॥ ५ ॥ मम दिव्य नन्दनंदनम् आनंदकंद सुचंदनम् त्वमेव स्वामी हे अन्तर्यामी सर्व हॄदयस्य स्पंदनम् हे कृष्ण हे माधव हे देव त्वम् सर्व कारणस्य कारणम् ॥ ६ ॥ ॥ इति श्री कृष्णदासः विरचित कारण षटकम् सम्पूर्णम् ॥