जीव अष्टकम्
🕉️

जीव अष्टकम्

Jiva AshtakamJiva Ashtakam is a mantra dedicated to Krishna, emphasizing the soul's eternal nature and its servitude to Krishna, beyond material identities.
🕉
अहम् अचिन्त्यः अमरः नित्यरूपः अहं सत्यः सत्यांशः सत्यस्वरूपः अहम् अक्लेद्यश्च अदाह्यः अशोष्यः अहं कृष्णदासः अहं कृष्णदासः ॥१॥नाहं ब्रह्मा विष्णु च रुद्र: बसोबः नाहम् आदित्यो मरुतः यक्षः देवः नाहं बालः बृद्धश्च नारी पुरुषः अहं कृष्णदासः अहं कृष्णदासः ॥२॥ अहम् अजन्मा अब्ययः मुक्त सत्यः अहं कूटस्थाचल पुरुषः नित्यः अहं कृष्णांशः कृष्णदेवस्य अंशः अहं कृष्णदासः अहं कृष्णदासः ॥३॥ नाहम् एतत् देहश्च ना तस्य अंगः नाहं कस्य संगश्च नाहम् असंगः नाहं पंचप्राणः नाहं पंचकोषः अहं कृष्णदासः अहं कृष्णदासः ॥४॥ अहं गुणातीतः अहं कालातीतः अहं आनन्दोशिब स्वरूपः सत्यः अहं चिदानन्दोsहं कृष्णस्य दासः अहं कृष्णदासः अहं कृष्णदासः ॥५॥ अहं तेन सह एकत्वं संबन्धम् अहं तेन सह संबम्धं पृथकम् अहं तदभेदाभेदश्च अचिन्त्यम् अहं कृष्णदासः अहं कृष्णदासः ॥६॥ अहं विस्मृतवान् मम रूपोशुद्धः अहं माया अनले देहे आबद्धः अहं शतोशतः आशाया निबद्धः अहं कृष्णदासः अहं कृष्णदासः ॥७॥ अहं कृष्णदासः अहं कृष्णदासः अहं कृष्णदासः अहं कृष्णदासः अहं कृष्णदासः अहं कृष्णदासः अहं कृष्णदासः अहं कृष्णदासः ॥८॥ ॥ इति श्री कृष्णदासः विरचित जीव अष्टकम् सम्पूर्णम् ॥