श्री सरस्वती अष्टकम्
श्री सरस्वती अष्टकम्
A-
A
A+
हि
EN
🕉️
श्री सरस्वती अष्टकम्
Shri Saraswati Ashtakam
Framed as a question carried from Yudhishthira to Bhishma and retold by Shaunaka, this ashtakam praises Saraswati as Vagisha, radiant as a crore of suns.
Aa
Reading
शेयर करें
पसंदीदा में जोड़ें
🕉
॥ शतानीक उवाच ॥ महामते महाप्राज्ञसर्वशास्त्रविशारद। अक्षीणकर्मबन्धस्तुपुरुषो द्विजसत्तम॥1॥मरणे यज्जोपेज्जाप्यंयं च भावमनुस्मरन्। परं पदमवाप्नोतितन्मे ब्रूहि महामुने॥2॥ ॥ शौनक उवाच ॥ इदमेव महाराजपृष्टवांस्ते पितामहः। भीष्मं धर्मविदां श्रेष्ठंधर्मपुत्रो युधिष्ठिरः॥3॥ ॥ युधिष्ठिर उवाच ॥ पितामह महाप्राज्ञसर्वशास्त्रविशारदः। बृहस्पतिस्तुता देवीवागीशेन महात्मना। आत्मायं दर्शयामासंसूर्य कोटिसमप्रभम्॥4॥ ॥ सरस्वत्युवाच ॥ वरं वृणीष्व भद्रंते यत्ते मनसि विद्यते। ॥ बृहस्पतिरूवाच ॥ यदि मे वरदा देविदिव्यज्ञानं प्रयच्छ नः॥5॥ ॥ देव्युवाच ॥ हन्त ते निर्मलज्ञानंकुमतिध्वंसकारणम्। स्तोत्रणानेन यो भक्तयामां स्तुवन्ति मनीषिण॥6॥ ॥ बृहस्पतिरूवाच ॥ लभते परमं ज्ञानंयतपरैरपि दुर्लभम्। प्राप्नोति पुरुषो नित्यंमहामाया प्रसादतः॥7॥ ॥ सरस्वत्युवाच ॥ त्रिसन्ध्यं प्रयतो नित्यंपठेदष्टकमुत्तमम्। तस्य कण्ठे सदा वासंकरिष्यामि न संशयः॥8॥ ॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम् ॥