माता सीता अष्टोत्तर-शतनाम-नामावली
🕉️

माता सीता अष्टोत्तर-शतनाम-नामावली

Sita Ashtottara Shatnam NamavaliThe Sita Ashtottara Shatnam Namavali is a mantra praising Goddess Sita with 108 names, highlighting her virtues as Ram's beloved and a symbol of devotion.
🕉
॥ श्रीसीताष्टोत्तरशतनामावली ॥॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री सीताष्टोत्तरशतनामावलिः ॥ ॐ सीतायै नमः । ॐ जानक्यै नमः । ॐ देव्यै नमः । ॐ वैदेह्यै नमः । ॐ राघवप्रियायै नमः । ॐ रमायै नमः । ॐ अवनिसुतायै नमः । ॐ रामायै नमः । ॐ राक्षसान्तप्रकारिण्यै नमः । ॐ रत्नगुप्तायै नमः॥ १० ॥ ॐ मातुलिङ्ग्यै नमह् । ॐ मैथिल्यै नमः । ॐ भक्ततोषदायै नमः । ॐ पद्माक्षजायै नमः । ॐ कञ्जनेत्रायै नमः । ॐ स्मितास्यायै नमः । ॐ नूपुरस्वनायै नमः । ॐ वैकुण्ठनिलयायै नमः । ॐ मायै नमः । ॐ श्रियै नमः॥ २० ॥ ॐ मुक्तिदायै नमः । ॐ कामपूरण्यै नमः । ॐ नृपात्मजायै नमः । ॐ हेमवर्णायै नमः । ॐ मृदुलाङ्ग्यै नमः । ॐ सुभाषिण्यै नमः । ॐ कुशाम्बिकायै नमः । ॐ दिव्यदायै नमः । ॐ लवमात्रे नमः । ॐ मनोहरायै नमः॥ ३० ॥ ॐ हनुमद् वन्दितपदायै नमः । ॐ मुक्तायै नमः । ॐ केयूरधारिण्यै नमः । ॐ अशोकवनमध्यस्थायै नमः । ॐ रावणादिकमोहिण्यै नमः । ॐ विमानसंस्थितायै नमः । ॐ सुभृवे नमः । ॐ सुकेश्यै नमः । ॐ रशनान्वितायै नमः । ॐ रजोरूपायै नमः॥ ४० ॥ ॐ सत्वरूपायै नमः । ॐ तामस्यै नमः । ॐ वह्निवासिन्यै नमः । ॐ हेममृगासक्त चित्तयै नमः । ॐ वाल्मीकाश्रम वासिन्यै नमः । ॐ पतिव्रतायै नमः । ॐ महामायायै नमः । ॐ पीतकौशेय वासिन्यै नमः । ॐ मृगनेत्रायै नमः । ॐ बिम्बोष्ठ्यै नमः॥ ५० ॥ ॐ धनुर्विद्या विशारदायै नमः । ॐ सौम्यरूपायै नमः ॐ दशरथस्तनुषाय नमः । ॐ चामरवीजितायै नमः । ॐ सुमेधा दुहित्रे नमः । ॐ दिव्यरूपायै नमः । ॐ त्रैलोक्य पालिन्यै नमः । ॐ अन्नपूर्णायै नमः । ॐ महाल्क्ष्म्यै नमः । ॐ धिये नमः॥ ६० ॥ ॐ लज्जायै नमः । ॐ सरस्वत्यै नमः । ॐ शान्त्यै नमः । ॐ पुष्ट्यै नमः । ॐ शमायै नमः । ॐ गौर्यै नमः । ॐ प्रभायै नमः । ॐ अयोध्यानिवासिन्यै नमः । ॐ वसन्तशीतलायै नमः । ॐ गौर्यै नमः॥ ७० ॥ ॐ स्नान सन्तुष्ट मानसायै नमः । ॐ रमानाम भद्रसंस्थायै नमः । ॐ हेमकुम्भपयोधरायै नमः । ॐ सुरार्चितायै नमः । ॐ धृत्यै नमः । ॐ कान्त्यै नमः । ॐ स्मृत्यै नमः । ॐ मेधायै नमः । ॐ विभावर्यै नमः । ॐ लघूधरायै नमः॥ ८० ॥ ॐ वारारोहायै नमः । ॐ हेमकङ्कणमण्दितायै नमः । ॐ द्विजपत्न्यर्पितनिजभूषायै नमः । ॐ रघवतोषिण्यै नमः । ॐ श्रीरामसेवनरतायै नमः । ॐ रत्नताटङ्क धारिण्यै नमः । ॐ रामवामाङ्कसंस्थायै नमः । ॐ रामचन्द्रैक रञ्जिन्यै नमः । ॐ सरयूजल सङ्क्रीडा कारिण्यै नमः । ॐ राममोहिण्यै नमः॥ ९० ॥ ॐ सुवर्ण तुलितायै नमः । ॐ पुण्यायै नमः । ॐ पुण्यकीर्तये नमः । ॐ कलावत्यै नमः । ॐ कलकण्ठायै नमः । ॐ कम्बुकण्ठायै नमः । ॐ रम्भोरवे नमः । ॐ गजगामिन्यै नमः । ॐ रामार्पितमनसे नमः । ॐ रामवन्दितायै नमः॥ १०० ॥ ॐ राम वल्लभायै नमः । ॐ श्रीरामपद चिह्नाङ्गायै नमः । ॐ राम रामेति भाषिण्यै नमः । ॐ रामपर्यङ्कशयनायै नमः । ॐ रामाङ्घ्रिक्षालिण्यै नमः । ॐ वरायै नमः । ॐ कामधेन्वन्नसन्तुष्टायै नमः । ॐ मातुलिङ्गकराधृतायै नमः । ॐ दिव्यचन्दन संस्थायै नमः । ॐ श्रियै नमः। ॐ मूलकासुरमर्दिन्यै नमः॥ १११ ॥ ॥ श्रीसीताष्टोत्तरशतनामावलिः समप्ता ॥