श्रीरामाष्टकम्
श्रीरामाष्टकम्
A-
A
A+
हि
EN
🕉️
श्रीरामाष्टकम्
Shri Ram Ashtakam
॥ श्रीरामाष्टकम् ॥
Aa
Reading
शेयर करें
पसंदीदा में जोड़ें
🕉
कृतार्तदेववन्दनंदिनेशवंशनन्दनम् । सुशोभिभालचन्दनंनमामि राममीश्वरम् ॥1॥मुनीन्द्रयज्ञकारकंशिलाविपत्तिहारकम् । महाधनुर्विदारकंनमामि राममीश्वरम् ॥2॥ स्वतातवाक्यकारिणंतपोवने विहारिणम् । करे सुचापधारिणंनमामि राममीश्वरम् ॥3॥ कुरङ्गमुक्तसायकंजटायुमोक्षदायकम् । प्रविद्धकीशनायकंनमामि राममीश्वरम् ॥4॥ प्लवङ्गसङ्गसम्मतिंनिबद्धनिम्नगापतिम् । दशास्यवंशसङ्क्षतिंनमामि राममीश्वरम् ॥5॥ विदीनदेवहर्षणंकपीप्सितार्थवर्षणम् । स्वबन्धुशोककर्षणंनमामि राममीश्वरम् ॥6॥ गतारिराज्यरक्षणंप्रजाजनार्तिभक्षणम् । कृतास्तमोहलक्षणंनमामि राममीश्वरम् ॥7॥ हृताखिलाचलाभरंस्वधामनीतनागरम् । जगत्तमोदिवाकरंनमामि राममीश्वरम् ॥8॥ इदं समाहितात्मनानरो रघूत्तमाष्टकम् । पठन्निरन्तरं भयंभवोद्भवं न विन्दते ॥9॥ ॥ इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामाष्टकं सम्पूर्णम् ॥