श्री तुलसी षोडशकनाम स्तोत्रम्
🕉️

श्री तुलसी षोडशकनाम स्तोत्रम्

Shri Tulasi Shodashakanam StrotamSixteen names of Tulasi, from Mahalakshmi and Haripriya to the dear friend of Lakshmi, appear here first as a stotram and then again as a namavali.
🕉
॥ श्रीतुलसीषोडशकनामस्तोत्रं नामावलिश्च ॥तुलसी श्रीमहालक्ष्मीः विद्याऽविद्या यशस्विनी । धर्म्या धर्मावनासक्ता पद्मिनी श्रीर्हरिप्रिया ॥ लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला । षोडशैतानि नामानि तुलस्याः कीर्तयेन्नरः । लभते सुतरां भक्तिं अन्ते विष्णुपदं लभेत् ॥ तुलस्यै नमः । श्रीमहालक्ष्म्यै नमः । विद्यायै नमः । अविद्यायै नमः । यशस्विन्यै नमः । धर्म्यायै नमः । धर्मावनासक्तायै नमः । पद्मिन्यै नमः । श्रियै नमः । हरिप्रियायै नमः । लक्ष्मीप्रियसख्यै नमः । देव्यै नमः । दिवे नमः । भूम्यै नमः । अचलायै नमः । चलायै नमः ॥16