श्री यमुनाष्टक
🕉️

श्री यमुनाष्टक

Shri Yamunashtakamनमामि यमुनामहं सकल सिद्धि हेतुं मुदा मुरारि पद पंकज स्फ़ुरदमन्द रेणुत्कटाम । भक्ति भारत में रचनाकार के रूप में वल्लभाचार्य का उल्लेख है।
🕉
तटस्थ नव कानन प्रकटमोद पुष्पाम्बुना सुरासुरसुपूजित स्मरपितुः श्रियं बिभ्रतीम ॥१॥
कलिन्द गिरि मस्तके पतदमन्दपूरोज्ज्वला विलासगमनोल्लसत्प्रकटगण्ड्शैलोन्न्ता । सघोषगति दन्तुरा समधिरूढदोलोत्तमा मुकुन्दरतिवर्द्धिनी जयति पद्मबन्धोः सुता ॥२॥
भुवं भुवनपावनीमधिगतामनेकस्वनैः प्रियाभिरिव सेवितां शुकमयूरहंसादिभिः । तरंगभुजकंकण प्रकटमुक्तिकावाकुका- नितन्बतटसुन्दरीं नमत कृष्ण्तुर्यप्रियाम ॥३॥
अनन्तगुण भूषिते शिवविरंचिदेवस्तुते घनाघननिभे सदा ध्रुवपराशराभीष्टदे । विशुद्ध मथुरातटे सकलगोपगोपीवृते कृपाजलधिसंश्रिते मम मनः सुखं भावय ॥४॥
यया चरणपद्मजा मुररिपोः प्रियं भावुका समागमनतो भवत्सकलसिद्धिदा सेवताम । तया सह्शतामियात्कमलजा सपत्नीवय- हरिप्रियकलिन्दया मनसि मे सदा स्थीयताम ॥५॥
नमोस्तु यमुने सदा तव चरित्र मत्यद्भुतं न जातु यमयातना भवति ते पयः पानतः । यमोपि भगिनीसुतान कथमुहन्ति दुष्टानपि प्रियो भवति सेवनात्तव हरेर्यथा गोपिकाः ॥६॥
ममास्तु तव सन्निधौ तनुनवत्वमेतावता न दुर्लभतमारतिर्मुररिपौ मुकुन्दप्रिये । अतोस्तु तव लालना सुरधुनी परं सुंगमा- त्तवैव भुवि कीर्तिता न तु कदापि पुष्टिस्थितैः ॥७॥
स्तुति तव करोति कः कमलजासपत्नि प्रिये हरेर्यदनुसेवया भवति सौख्यमामोक्षतः । इयं तव कथाधिका सकल गोपिका संगम- स्मरश्रमजलाणुभिः सकल गात्रजैः संगमः ॥८॥
तवाष्टकमिदं मुदा पठति सूरसूते सदा समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः । तया सकलसिद्धयो मुररिपुश्च सन्तुष्यति स्वभावविजयो भवेत वदति वल्लभः श्री हरेः ॥९॥
॥ इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं सम्पूर्णम ॥