नाग स्तोत्रम्
🕉️

नाग स्तोत्रम्

Naag Sarpa StotramNaag Sarpa Stotram is a mantra dedicated to serpents revered across various realms like Brahma, Vishnu, and Rudra Lokas. It seeks their blessings and grace.
🕉
ब्रह्म लोके च ये सर्पाः शेषनागाः पुरोगमाः । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥१॥विष्णु लोके च ये सर्पाः वासुकि प्रमुखाश्चये । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥२॥ रुद्र लोके च ये सर्पाः तक्षकः प्रमुखास्तथा । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥३॥ खाण्डवस्य तथा दाहे स्वर्गन्च ये च समाश्रिताः । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥४॥ सर्प सत्रे च ये सर्पाः अस्थिकेनाभि रक्षिताः । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥५॥ प्रलये चैव ये सर्पाः कार्कोट प्रमुखाश्चये । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥६॥ धर्म लोके च ये सर्पाः वैतरण्यां समाश्रिताः । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥७॥ ये सर्पाः पर्वत येषु धारि सन्धिषु संस्थिताः । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥८॥ ग्रामे वा यदि वारण्ये ये सर्पाः प्रचरन्ति च । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥९॥ पृथिव्याम् चैव ये सर्पाः ये सर्पाः बिल संस्थिताः । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥१०॥ रसातले च ये सर्पाः अनन्तादि महाबलाः । नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥११॥