श्री जगन्नाथ प्रातः स्मरण स्तोत्रम्
श्री जगन्नाथ प्रातः स्मरण स्तोत्रम्
A-
A
A+
हि
EN
🕉️
श्री जगन्नाथ प्रातः स्मरण स्तोत्रम्
Jagannath Pratah Smaran Stotram
The Jagannath Pratah Smaran Stotram is a mantra that praises Lord Jagannath, highlighting his divine forms and roles across ages, sung during morning prayers.
Aa
Reading
शेयर करें
पसंदीदा में जोड़ें
🕉
नीलाम्बुद-श्यामल-कान्ति-कान्तं, नीलाम्बुधेर्नीलगिरौ बसन्तम् । लीलामयं नील-सरोज नेत्रं, देवं जगन्नाथमहं स्मरामि ॥१॥संसार-धातारमनन्त-रूपं, वेदान्त-वेद्यं हृत-पाप-तापम् । प्रातश्च सायं च तमेकनाथं, बन्दे जगन्नाथमनाथनाथम् ॥२॥ दीनार्त्ति-नाशं करुणा-विलासं, सत्य-प्रकाशं हृदयैक-बासम् । श्रीशं परेशं जगदीशमीशं, बन्दे जगन्नाथमनाथ-नाथम् ॥३॥ हिरण्यपूर्वं कशिपुं निहन्तं, सत्ये धृतं येन नृसिंह-रूपम् । तमेवमाद्यं पुरुषाग्रगण्यं, श्रीमज्जगन्नाथमहं प्रपद्ये ॥४॥ त्रेतायुगे रावणमेव हन्तुं, रामस्वरूपं धृतवन्तमेकम् । धर्मावतारं भुवनैकवन्दयं, देवं जगन्नाथमहं स्मरामि ॥५॥ यो द्वापरे दैत्यविनाशनाय, दधौ सुरम्यं यदुनाथ-वेशम् । तं राधिका-नाथमनाथ-नाथं, देवं जगन्नाथमहं भजामि ॥६॥ Bhakti Bharat Lyrics हन्तुं नराणामिह पाप-तापं, कलौ धृतं येन हरेः स्वरूपम् । प्रातश्च सायं च तमेकनाथं, देवं जगन्नाथमहं स्मरामि ॥७॥ हे देव-देव ! प्रभु विश्वनाथ ! श्रीमज्जगन्नाथ! जगद् वरेण्य ! । मोहान्धकारैव विनाश-सूर्य्यं, प्रातस्त्वदीयं पद-पद्ममीड़े ॥८॥ Lyrics: Acharya Harekrishna Shatpathi