हरिवरासनं
🕉️

हरिवरासनं

HarivarasanamHarivarasanam is a revered mantra dedicated to Lord Ayyappa, often sung at the Sabarimala temple. It praises his divine form and protective nature.
🕉
॥ श्रीहरिहरात्मजाष्टकम् ॥ हरिवरासनं विश्वमोहनम् हरिदधीश्वरमाराध्यपादुकम् । अरिविमर्दनं नित्यनर्तनम् हरिहरात्मजं देवमाश्रये ॥ १ ॥शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । चरणकीर्तनं भक्तमानसम् भरणलोलुपं नर्तनालसम् । अरुणभासुरं भूतनायकम् हरिहरात्मजं देवमाश्रये ॥ २ ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । प्रणयसत्यकं प्राणनायकम् प्रणतकल्पकं सुप्रभाञ्चितम् । प्रणवमन्दिरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥ ३ ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । तुरगवाहनं सुन्दराननम् वरगदायुधं वेदवर्णितम् । गुरुकृपाकरं कीर्तनप्रियम् हरिहरात्मजं देवमाश्रये ॥ ४ ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । त्रिभुवनार्चितं देवतात्मकम् त्रिनयनप्रभुं दिव्यदेशिकम् । त्रिदशपूजितं चिन्तितप्रदम् हरिहरात्मजं देवमाश्रये ॥ ५ ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । भवभयापहं भावुकावकम् भुवनमोहनं भूतिभूषणम् । धवलवाहनं दिव्यवारणम् हरिहरात्मजं देवमाश्रये ॥ ६ ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । कलमृदुस्मितं सुन्दराननम् कलभकोमलं गात्रमोहनम् । कलभकेसरीमाजिवाहनम् हरिहरात्मजं देवमाश्रये ॥ ७ ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । श्रितजनप्रियं चिन्तितप्रदम् श्रुतिविभूषणं साधुजीवनम् । श्रुतिमनोहरं गीतलालसम् हरिहरात्मजं देवमाश्रये ॥ ८ ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । ॥ इति श्री हरिहरात्मजाष्टकं सम्पूर्णम् ॥