श्री लक्ष्मी सहस्रनामावलिः
श्री लक्ष्मी सहस्रनामावलिः
A-
A
A+
हि
EN
🕉️
श्री लक्ष्मी सहस्रनामावलिः
Lakshmi Sahasra Namavali
The Lakshmi Sahasra Namavali mantra praises the goddess Lakshmi with a thousand names, highlighting her eternal light, divine grace, and supreme power.
Aa
Reading
शेयर करें
पसंदीदा में जोड़ें
🕉
॥ अथ श्रीलक्ष्मीसहस्रनामावलिः ॥ ॐ नित्यागतायै नमः । ॐ अनन्तनित्यायै नमः । ॐ नन्दिन्यै नमः । ॐ जनरञ्जिन्यै नमः । ॐ नित्यप्रकाशिन्यै नमः । ॐ स्वप्रकाशस्वरूपिण्यै नमः । ॐ महालक्ष्म्यै नमः । ॐ महाकाल्यै नमः । ॐ महाकन्यायै नमः । ॐ सरस्वत्त्यै नमः ॥१०॥ॐ भोगवैभवसन्धात्र्यै नमः । ॐ भक्तानुग्रहकारिण्यै नमः । ॐ ईशावास्यायै नमः । ॐ महामायायै नमः । ॐ महादेव्यै नमः । ॐ महेश्वर्यै नमः । ॐ हृल्लेखायै नमः । ॐ परमायैशक्त्यै नमः । ॐ मातृकाबीजरुपिण्यै नमः । ॐ नित्यानन्दायै नमः ॥२०॥ ॐ नित्यबोधायै नमः । ॐ नादिन्यै नमः । ॐ जनमोदिन्यै नमः । ॐ सत्यप्रत्ययिन्यै नमः । ॐ स्वप्रकाशात्मरूपिण्यै नमः । ॐ त्रिपुरायै नमः । ॐ भैरव्यै नमः । ॐ विद्यायै नमः । ॐ हंसायै नमः । ॐ वागीश्वर्यै नमः ॥३०॥ ॐ शिवायै नमः । ॐ वाग्देव्यै नमः । ॐ महारात्र्यै नमः । ॐ कालरात्र्यै नमः । ॐ त्रिलोचनायै नमः । ॐ भद्रकाल्यै नमः । ॐ कराल्यै नमः । ॐ महाकाल्यै नमः । ॐ तिलोत्तमायै नमः । ॐ काल्यै नमः ॥४०॥ ॐ करालवक्त्रान्तायै नमः । ॐ कामाक्ष्यै नमः । ॐ कामदायै नमः । ॐ शुभायै नमः । ॐ चण्डिकायै नमः । ॐ चण्डरूपेशायै नमः । ॐ चामुण्डायै नमः । ॐ चक्रधारिण्यै नमः । ॐ त्रैलोक्यजनन्यै नमः । ॐ त्रैलोक्यविजयोत्तमायै नमः ॥५०॥ ॐ सिद्धलक्ष्म्यै नमः । ॐ क्रियालक्ष्म्यै नमः । ॐ मोक्षलक्ष्म्यै नमः । ॐ प्रसादिन्यै नमः । ॐ उमायै नमः । ॐ भगवत्यै नमः । ॐ दुर्गायै नमः । ॐ चान्द्र्यै नमः । ॐ दाक्षायण्यै नमः । ॐ प्रत्यङ्गिरसे नमः ॥६०॥ ॐ धरायै नमः । ॐ वेलायै नमः । ॐ लोकमात्रे नमः । ॐ हरिप्रियायै नमः । ॐ पार्वत्यै नमः । ॐ परमायै नमः । ॐ ब्रह्मविद्याप्रदायिन्यै नमः । ॐ अरूपायै नमः । ॐ बहुरूपायै नमः । ॐ विरूपायै नमः ॥७०॥ ॐ विश्वरूपिण्यै नमः । ॐ पञ्चभूतात्मिकायै नमः । ॐ वाण्यै नमः । ॐ परमात्मिकायै नमः । ॐ परायै नमः । ॐ कालिम्न्यै नमः । ॐ पञ्चिकायै नमः । ॐ वाग्मिन्यै नमः । ॐ हविषे नमः । ॐ प्रत्यधिदेवतायै नमः ॥८०॥ ॐ देवमात्रे नमः । ॐ सुरेशानायै नमः । ॐ वेदगर्भायै नमः । ॐ अम्बिकायै नमः । ॐ धृतये नमः । ॐ संख्यायै नमः । ॐ जातयै नमः । ॐ क्रियाशक्त्यै नमः । ॐ प्रकृत्यै नमः । ॐ मोहिन्यै नमः ॥९०॥ ॐ मह्यै नमः । ॐ यज्ञविद्यायै नमः । ॐ महाविद्यायै नमः । ॐ गुह्यविद्यायै नमः । ॐ विभावर्यै नमः । ॐ ज्योतिष्मत्यै नमः । ॐ महामात्रे नमः । ॐ सर्वमन्त्रफलप्रदायै नमः । ॐ दारिद्र्यध्वंसिन्यै नमः । ॐ हृदयग्रन्थिभेदिन्यै नमः ॥१००॥ ॐ सहस्रादित्यसङ्काशायै नमः । ॐ चन्द्रिकायै नमः । ॐ चन्द्ररूपिण्यै नमः । ॐ अकारादिक्षकारान्तमातृकायै नमः । ॐ सप्तमातृकायै नमः । ॐ गायत्र्यै नमः । ॐ सोमसम्भूत्यै नमः । ॐ सावित्र्यै नमः । ॐ प्रणवात्मिकायै नमः । ॐ शाङ्कर्यै नमः ॥११०॥ ॐ वैष्णव्यै नमः । ॐ ब्राह्म्यै नमः । ॐ सर्वदेवनमस्कृतायै नमः । ॐ तस्मै नमः । ॐ दुर्गासेव्यायै नमः । ॐ कुबेराक्ष्यै नमः । ॐ करवीरनिवासिन्यै नमः । ॐ जयायै नमः । ॐ विजयायै नमः । ॐ जयन्त्यै नमः ॥१२०॥ ॐ अपराजितायै नमः । ॐ कुब्जिकायै नमः । ॐ कालिकायै नमः । ॐ शास्त्र्यै नमः । ॐ वीणापुस्तकधारिण्यै नमः । ॐ सर्वज्ञशक्त्यै नमः । ॐ सर्वज्ञायै नमः । ॐ ब्रह्मविष्णुशिवात्मिकायै नमः । ॐ इडापिङ्गलिकामध्यमृणालितन्तु- रुपिण्यै नमः । ॐ यज्ञेशान्यै नमः ॥१३०॥ ॐ प्रधायै नमः । ॐ दीक्षायै नमः । ॐ दक्षिणायै नमः । ॐ सर्वमोहिन्यै नमः । ॐ अष्टाङ्गयोगिन्यै नमः । ॐ निर्बीजध्यानगोचरायै नमः । ॐ सर्वतीर्थस्थितायै नमः । ॐ शुद्धायै नमः । ॐ सर्वपर्वतवासिन्यै नमः । ॐ वेदशास्त्रप्रमाण्यै नमः ॥१४०॥ ॐ षडङ्गादिपदक्रमायै नमः । ॐ धात्र्यै नमः । ॐ शुभानन्दायै नमः । ॐ यज्ञकर्मस्वरूपिण्यै नमः । ॐ व्रतिन्यै नमः । ॐ मेनकायै नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मचारिण्यै नमः । ॐ एकाक्षरपरायै नमः । ॐ तारायै नमः ॥१५०॥ ॐ भवबन्धविनाशिन्यै नमः । ॐ विश्वम्भरायै नमः । ॐ धराधारायै नमः । ॐ निराधारायै नमः । ॐ अधिकस्वरायै नमः । ॐ राकायै नमः । ॐ कुह्वे नमः । ॐ अमावास्यायै नमः । ॐ पूर्णिमायै नमः । ॐ अनुमत्यै नमः ॥१६०॥ ॐ द्युतये नमः । ॐ सिनीवाल्यै नमः । ॐ अवश्यायै नमः । ॐ वैश्वदेव्यै नमः । ॐ पिशङ्गिलायै नमः । ॐ पिप्पलायै नमः । ॐ विशालाक्ष्यै नमः । ॐ रक्षोघ्न्यै नमः । ॐ वृष्टिकारिण्यै नमः । ॐ दुष्टविद्राविण्यै नमः ॥१७०॥ ॐ सर्वोपद्रवनाशिन्यै नमः । ॐ शारदायै नमः । ॐ शरसन्धानायै नमः । ॐ सर्वशस्त्ररूपिण्यै नमः । ॐ युद्धमध्यस्थितायै नमः । ॐ सर्वभूतप्रभञ्जन्यै नमः । ॐ अयुद्धायै नमः । ॐ युद्धरूपायै नमः । ॐ शान्तायै नमः । ॐ शान्तिस्वरूपिण्यै नमः ॥१८०॥ ॐ गङ्गायै नमः । ॐ सरस्वत्यै नमः । ॐ वेण्यै नमः । ॐ यमुनायै नमः । ॐ नर्मदायै नमः । ॐ समुद्रवसनावासायै नमः । ॐ ब्रह्माण्डश्रेणिमेखलायै नमः । ॐ पञ्चवक्त्रायै नमः । ॐ दशभुजायै नमः । ॐ शुद्धस्फटिकसन्निभायै नमः ॥१९०॥ ॐ रक्तायै नमः । ॐ कृष्णायै नमः । ॐ सितायै नमः । ॐ पीतायै नमः । ॐ सर्ववर्णायै नमः । ॐ निरीश्वर्यै नमः । ॐ कालिकायै नमः । ॐ चक्रिकायै नमः । ॐ देव्यै नमः । ॐ सत्यायै नमः ॥२००॥ ॐ बटुकायै नमः । ॐ स्थितायै नमः । ॐ तरुण्यै नमः । ॐ वारुण्यै नमः । ॐ नार्यै नमः । ॐ ज्येष्ठादेव्यै नमः । ॐ सुरेश्वर्यै नमः । ॐ विश्वम्भरायै नमः । ॐ धरायै नमः । ॐ कर्त्र्यै नमः ॥२१०॥ ॐ गलार्गलविभञ्जन्यै नमः । ॐ सन्ध्यायै नमः । ॐ रात्र्यै नमः । ॐ दिवायै नमः । ॐ ज्योत्स्नायै नमः । ॐ कलायै नमः । ॐ काष्ठायै नमः । ॐ निमेषिकायै नमः । ॐ उर्व्यै नमः । ॐ कात्यायन्यै नमः ॥२२०॥ ॐ शुभ्रायै नमः । ॐ संसारार्णवतारिण्यै नमः । ॐ कपिलायै नमः । ॐ कीलिकायै नमः । ॐ अशोकायै नमः । ॐ मल्लिकानवमल्लिकायै नमः । ॐ नन्दिकायै नमः । ॐ शान्तायै नमः । ॐ भञ्जिकायै नमः । ॐ भयभञ्जिकायै नमः ॥२३०॥ ॐ कौशिक्यै नमः । ॐ वैदिक्यै नमः । ॐ गौर्यै नमः । ॐ रूपाधिकायै नमः । ॐ अतिभासे नमः । ॐ दिग्वस्त्रायै नमः । ॐ नववस्त्रायै नमः । ॐ कन्यकायै नमः । ॐ कमलोद्भवायै नमः । ॐ श्रीसौम्यलक्षणायै नमः ॥२४०॥ ॐ अतीतदुर्गायै नमः । ॐ सूत्रप्रबोधिकायै नमः । ॐ श्रद्धायै नमः । ॐ मेधायै नमः । ॐ कृतये नमः । ॐ प्रज्ञायै नमः । ॐ धारणायै नमः । ॐ कान्तये नमः । ॐ श्रुतये नमः । ॐ स्मृतये नमः ॥२५०॥ ॐ धृतये नमः । ॐ धन्यायै नमः । ॐ भूतये नमः । ॐ इष्ट्यै नमः । ॐ मनीषिण्यै नमः । ॐ विरक्त्यै नमः । ॐ व्यापिन्यै नमः । ॐ मायायै नमः । ॐ सर्वमायाप्रभञ्जन्यै नमः । ॐ माहेन्द्र्यै नमः ॥२६०॥ ॐ मन्त्रिण्यै नमः । ॐ सिंह्यै नमः । ॐ इन्द्रजालरूपिण्यै नमः । ॐ अवस्थात्रयनिर्मुक्तायै नमः । ॐ गुणत्रयविवर्जितायै नमः । ॐ योगीध्यानान्तगम्यायै नमः । ॐ योगध्यानपरायणायै नमः । ॐ त्रयीशिखाविशेषज्ञायै नमः । ॐ वेदान्तज्ञानरुपिण्यै नमः । ॐ भारत्यै नमः ॥२७०॥ ॐ कमलायै नमः । ॐ भाषायै नमः । ॐ पद्मायै नमः । ॐ पद्मवत्यै नमः । ॐ कृतये नमः । ॐ गौतम्यै नमः । ॐ गोमत्यै नमः । ॐ गौर्यै नमः । ॐ ईशानायै नमः । ॐ हंसवाहिन्यै नमः ॥२८०॥ ॐ नारायण्यै नमः । ॐ प्रभाधारायै नमः । ॐ जान्हव्यै नमः । ॐ शङ्करात्मजायै नमः । ॐ चित्रघण्टायै नमः । ॐ सुनन्दायै नमः । ॐ श्रियै नमः । ॐ मानव्यै नमः । ॐ मनुसम्भवायै नमः । ॐ स्तम्भिन्यै नमः ॥२९०॥ ॐ क्षोभिण्यै नमः । ॐ मार्यै नमः । ॐ भ्रामिण्यै नमः । ॐ शत्रुमारिण्यै नमः । ॐ मोहिन्यै नमः । ॐ द्वेषिण्यै नमः । ॐ वीरायै नमः । ॐ अघोरायै नमः । ॐ रुद्ररूपिण्यै नमः । ॐ रुद्रैकादशिन्यै नमः ॥३००॥ ॐ पुण्यायै नमः । ॐ कल्याण्यै नमः । ॐ लाभकारिण्यै नमः । ॐ देवदुर्गायै नमः । ॐ महादुर्गायै नमः । ॐ स्वप्नदुर्गायै नमः । ॐ अष्टभैरव्यै नमः । ॐ सूर्यचन्द्राग्निनेत्रायै नमः । ॐ ग्रहनक्षत्ररूपिण्यै नमः । ॐ बिन्दुनादकलातीत- बिन्दुनादकलात्मिकायै नमः ॥३१०॥ ॐ दशवायुजयोंकारायै नमः । ॐ कलाषोडशसंयुतायै नमः । ॐ काश्यप्यै नमः । ॐ कमलायै नमः । ॐ नादचक्रनिवासिन्यै नमः । ॐ मृडाधारायै नमः । ॐ स्थिरायै नमः । ॐ गुह्यायै नमः । ॐ चक्ररूपिण्यै नमः । ॐ अविद्यायै नमः ॥३२०॥ ॐ शार्वर्यै नमः । ॐ भुञ्जायै नमः । ॐ जम्भासुरनिबर्हिण्यै नमः । ॐ श्रीकायायै नमः । ॐ श्रीकलायै नमः । ॐ शुभ्रायै नमः । ॐ कर्मनिर्मूलकारिण्यै नमः । ॐ आदिलक्ष्म्यै नमः । ॐ गुणाधारायै नमः । ॐ पञ्चब्रह्मात्मिकायै नमः ॥३३०॥ ॐ परायै नमः । ॐ श्रुतये नमः । ॐ ब्रह्ममुखावासायै नमः । ॐ सर्वसम्पत्तिरूपिण्यै नमः । ॐ मृतसंजीविन्यै नमः । ॐ मैत्र्यै नमः । ॐ कामिन्यै नमः । ॐ कामवर्जितायै नमः । ॐ निर्वाणमार्गदायै नमः । ॐ हंसिन्यै नमः ॥३४०॥ ॐ काशिकायै नमः । ॐ क्षमायै नमः । ॐ सपर्यायै नमः । ॐ गुणिन्यै नमः । ॐ भिन्नायै नमः । ॐ निर्गुणायै नमः । ॐ अखण्डितायै नमः । ॐ शुभायै नमः । ॐ स्वामिन्यै नमः । ॐ वेदिन्यै नमः ॥३५०॥ ॐ शक्यायै नमः । ॐ शाम्बर्यै नमः । ॐ चक्रधारिण्यै नमः । ॐ दण्डिन्यै नमः । ॐ मुण्डिन्यै नमः । ॐ व्याघ्र्यै नमः । ॐ शिखिन्यै नमः । ॐ सोमहन्तये नमः । ॐ चिन्तामणिचिदानन्दायै नमः । ॐ पञ्चबाणाग्रबोधिन्यै नमः ॥३६०॥ ॐ बाणश्रेणये नमः । ॐ सहस्राक्ष्यै नमः । ॐ सहस्रभुजपादुकायै नमः । ॐ सन्ध्याबलायै नमः । ॐ त्रिसन्ध्यायै नमः । ॐ ब्रह्माण्डमणिभूषणायै नमः । ॐ वासव्यै नमः । ॐ वारुणीसेनायै नमः । ॐ कुलिकायै नमः । ॐ मन्त्ररञ्जिन्यै नमः ॥३७०॥ ॐ जितप्राणस्वरूपायै नमः । ॐ कान्तायै नमः । ॐ काम्यवरप्रदायै नमः । ॐ मन्त्रब्राह्मणविद्यार्थायै नमः । ॐ नादरुपायै नमः । ॐ हविष्मत्यै नमः । ॐ आथर्वण्यै नमः । ॐ शृतये नमः । ॐ शून्यायै नमः । ॐ कल्पनावर्जितायै नमः ॥३८०॥ ॐ सत्यै नमः । ॐ सत्ताजातये नमः । ॐ प्रमायै नमः । ॐ मेयायै नमः । ॐ अप्रमितये नमः । ॐ प्राणदायै नमः । ॐ गतये नमः । ॐ अपर्णायै नमः । ॐ पञ्चवर्णायै नमः । ॐ सर्वदायै नमः ॥३९०॥ ॐ भुवनेश्वर्यै नमः । ॐ त्रैलोक्यमोहिन्यै नमः । ॐ विद्यायै नमः । ॐ सर्वधर्त्र्यै नमः । ॐ क्षराक्षरायै नमः । ॐ हिरण्यवर्णायै नमः । ॐ हरिण्यै नमः । ॐ सर्वोपद्रवनाशिन्यै नमः । ॐ कैवल्यपदवीरेखायै नमः । ॐ सूर्यमण्डलसंस्थितायै नमः ॥४००॥ ॐ सोममण्डलमध्यस्थायै नमः । ॐ वह्निमण्डलसंस्थितायै नमः । ॐ वायुमण्डलमध्यस्थायै नमः । ॐ व्योममण्डलसंस्थितायै नमः । ॐ चक्रिकायै नमः । ॐ चक्रमध्यस्थायै नमः । ॐ चक्रमार्गप्रवर्तिन्यै नमः । ॐ कोकिलाकुलायै नमः । ॐ चक्रेशायै नमः । ॐ पक्षतये नमः ॥४१०॥ ॐ पङ्क्तिपावनायै नमः । ॐ सर्वसिद्धान्तमार्गस्थायै नमः । ॐ षड्वर्णायै नमः । ॐ वरवर्जितायै नमः । ॐ शतरुद्रहरायै नमः । ॐ हन्त्र्यै नमः । ॐ सर्वसंहारकारिण्यै नमः । ॐ पुरुषायै नमः । ॐ पौरुष्यै नमः । ॐ तुष्टये नमः ॥४२०॥ ॐ सर्वतन्त्रप्रसूतिकायै नमः । ॐ अर्धनारिश्वर्यै नमः । ॐ सर्वविद्याप्रदायिन्यै नमः । ॐ भार्गव्यै नमः । ॐ याजुषविद्यायै नमः । ॐ सर्वोपनिषदास्थितायै नमः । ॐ व्योमकेशायै नमः । ॐ अखिलप्राणायै नमः । ॐ पञ्चकोशविलक्षणायै नमः । ॐ पञ्चकोशात्मिकायै नमः ॥४३०॥ ॐ प्रतिचे नमः । ॐ पञ्चब्रह्मात्मिकायै नमः । ॐ शिवायै नमः । ॐ जगते नमः । ॐ जराजनित्र्यै नमः । ॐ पञ्चकर्मप्रसूतिकायै नमः । ॐ वाग्देव्यै नमः । ॐ आभरणाकारायै नमः । ॐ सर्वकाम्यस्थितायै नमः । ॐ स्थितये नमः ॥४४०॥ ॐ अष्टादशचतुःषष्टि- पीठिकाविद्ययायुतायै नमः । ॐ कालिकायै नमः । ॐ कर्षण्यै नमः । ॐ श्यामायै नमः । ॐ यक्षिण्यै नमः । ॐ किन्नरेश्वर्यै नमः । ॐ केतक्यै नमः । ॐ मल्लिकायै नमः । ॐ अशोकायै नमः । ॐ वाराह्यै नमः ॥४५०॥ ॐ धरण्यै नमः । ॐ ध्रुवायै नमः । ॐ नारसिंह्यै नमः । ॐ महोग्रास्यायै नमः । ॐ भक्तानामार्तिनाशिन्यै नमः । ॐ अन्तर्बलायै नमः । ॐ स्थिरायै नमः । ॐ लक्ष्म्यै नमः । ॐ जरामरणवर्जितायै नमः । ॐ श्रीरञ्जितायै नमः ॥४६०॥ ॐ महाकायायै नमः । ॐ सोमसूर्याग्निलोचनायै नमः । ॐ आदितये नमः । ॐ देवमात्रे नमः । ॐ अष्टपुत्रायै नमः । ॐ अष्टयोगिन्यै नमः । ॐ अष्टप्रकृत्यै नमः । ॐ अष्टाष्टविभ्राजद्विकृताकृतये नमः । ॐ दुर्भिक्षध्वंसिन्यै नमः । ॐ सीतायै नमः ॥४७०॥ ॐ सत्यायै नमः । ॐ रुक्मिण्यै नमः । ॐ ख्यातिजायै नमः । ॐ भार्गव्यै नमः । ॐ देवयोन्यै नमः । ॐ तपस्विन्यै नमः । ॐ शाकम्भर्यै नमः । ॐ महाशोणायै नमः । ॐ गरुडोपरिसंस्थितायै नमः । ॐ सिंहगायै नमः ॥४८०॥ ॐ व्याघ्रगायै नमः । ॐ वायुगायै नमः । ॐ महाद्रिगायै नमः । ॐ अकारादिक्षकारान्तसर्वविद्याधि- देवतायै नमः । ॐ मंत्रव्याख्याननिपुणायै नमः । ॐ ज्योतिशास्त्रैकलोचनायै नमः । ॐ इडापिङ्गलिकायै नमः । ॐ मध्यसुषुम्नायै नमः । ॐ ग्रन्थिभेदिन्यै नमः । ॐ कालचक्राश्रयोपेतायै नमः ॥४९०॥ ॐ कालचक्रस्वरूपिण्यै नमः । ॐ वैशाराद्यै नमः । ॐ मतिश्रेष्ठायै नमः । ॐ वरिष्ठायै नमः । ॐ सर्वदीपिकायै नमः । ॐ वैनायक्यै नमः । ॐ वरारोहायै नमः । ॐ श्रोणिवेलायै नमः । ॐ बहिर्वलायै नमः । ॐ जम्भिन्यै नमः ॥५००॥ ॐ जृभिण्यै नमः । ॐ जृम्भकारिण्यै नमः । ॐ गणकारिकायै नमः । ॐ शरण्यै नमः । ॐ चक्रिकायै नमः । ॐ अनन्तायै नमः । ॐ सर्वव्याधिचिकित्सकाये नमः । ॐ देवक्यै नमः । ॐ देवसङ्काशायै नमः । ॐ वारिधये नमः ॥५१०॥ ॐ करुणाकरायै नमः । ॐ शर्वर्यै नमः । ॐ सर्वसम्पन्नायै नमः । ॐ सर्वपापप्रभञ्जन्यै नमः । ॐ एकमात्रायै नमः । ॐ द्विमात्रायै नमः । ॐ त्रिमात्रायै नमः । ॐ अपरायै नमः । ॐ अर्धमात्रायै नमः । ॐ परायै नमः ॥५२०॥ ॐ सूक्ष्मायै नमः । ॐ सूक्ष्मार्थार्थपरायै नमः । ॐ एकवीरायै नमः । ॐ विशेषाख्यायै नमः । ॐ षष्ठिदायायै नमः । ॐ मनस्विन्यै नमः । ॐ नैष्कर्म्यायै नमः । ॐ निष्कलालोकायै नमः । ॐ ज्ञानकर्माधिकायै नमः । ॐ गुणायै नमः ॥५३०॥ ॐ बन्धुरानन्दसन्दोहायै नमः । ॐ व्योमकारायै नमः । ॐ निरूपितायै नमः । ॐ गद्यपद्यात्मवाण्यै नमः । ॐ सर्वालङ्कारसंयुतायै नमः । ॐ साधुबन्धपदन्यासायै नमः । ॐ सर्वौकसे नमः । ॐ घटिकावलये नमः । ॐ षट्कर्मिण्यै नमः । ॐ कर्कशाकारायै नमः ॥५४०॥ ॐ सर्वकर्मविवर्जितायै नमः । ॐ आदित्यवर्णायै नमः । ॐ अपर्णायै नमः । ॐ कामिन्यै नमः । ॐ नररूपिण्यै नमः । ॐ ब्रह्माण्यै नमः । ॐ ब्रह्मसन्तानायै नमः । ॐ वेदवाचे नमः । ॐ ईश्वर्यै नमः । ॐ शिवायै नमः ॥५५०॥ ॐ पुराणन्यायमीमांसायै नमः । ॐ धर्मशास्त्रागमश्रुतायै नमः । ॐ सद्योवेदवत्यै नमः । ॐ सर्वायै नमः । ॐ हंस्यै नमः । ॐ विद्याधिदेवतायै नमः । ॐ विश्वेश्वर्यै नमः । ॐ जगद्धात्र्यै नमः । ॐ विश्वनिर्माणकारिण्यै नमः । ॐ वैदिक्यै नमः ॥५६०॥ ॐ वेदरूपायै नमः । ॐ कालिकायै नमः । ॐ कालरूपिण्यै नमः । ॐ नारायण्यै नमः । ॐ महादेव्यै नमः । ॐ सर्वतत्वप्रवर्तिन्यै नमः । ॐ हिरण्यवर्णरूपायै नमः । ॐ हिरण्यपदसंभवायै नमः । ॐ कैवल्यपदव्यै नमः । ॐ पुण्यायै नमः ॥५७०॥ ॐ कैवल्यज्ञानलक्षितायै नमः । ॐ ब्रह्मसम्पत्तिरूपायै नमः । ॐ ब्रह्मसम्पत्तिकारिण्यै नमः । ॐ वारुण्यै नमः । ॐ वारुणाराध्यायै नमः । ॐ सर्वकर्मप्रवर्तिन्यै नमः । ॐ एकाक्षरपरायै नमः । ॐ युक्तायै नमः । ॐ सर्वदारिद्र्यभञ्जिन्यै नमः । ॐ पाशाङ्कुशान्वितायै नमः ॥५८०॥ ॐ दिव्यायै नमः । ॐ वीणाव्याख्याक्षसूत्रभृते नमः । ॐ एकमूर्त्यै नमः । ॐ त्रयीमूर्त्यै नमः । ॐ मधुकैटभभञ्जन्यै नमः । ॐ साङ्ख्यायै नमः । ॐ साङ्ख्यवत्यै नमः । ॐ ज्वालायै नमः । ॐ ज्वलन्त्यै नमः । ॐ कामरूपिण्यै नमः ॥५९०॥ ॐ जाग्रन्त्यै नमः । ॐ सर्वसम्पत्त्यै नमः । ॐ सुषुप्तायै नमः । ॐ स्वेष्टदायिन्यै नमः । ॐ कपालिन्यै नमः । ॐ महादंष्ट्रायै नमः । ॐ भ्रुकुटीकुटिलाननायै नमः । ॐ सर्वावासायै नमः । ॐ सुवासायै नमः । ॐ बृहत्यै नमः ॥६००॥