श्रीगणपति रक्षाकवचम् : मंत्र
🕉️

श्रीगणपति रक्षाकवचम् : मंत्र

Shriganpati RakshakavachamThe Shriganpati Rakshakavacham mantra praises Lord Ganesh, highlighting his divine form and protective qualities. Devotees chant it for spiritual safeguarding.
🕉
पार्वतेयं महाकायं ऋद्धिसिद्धि वरदायकम् गणपतिं निधिपतिं सर्वजन लोकनायकम् रुद्रप्रियं यज्ञकायं नमामि हे दीर्घकायकम् हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥ १ ॥ एकदन्तं कृपानन्तं सर्वांगसुन्दरदर्शनम् वक्रतुंडं दिव्यऋण्डम् अपूर्वमंगलस्पर्शनम् लंबोदरं पीतांबरं नमामि हे रोमहर्षणम् हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥ २ ॥ प्रेममूर्तिं कामपूर्तिं चराचर हृदस्पन्दनम् मंत्रमुग्धं पापदग्धम् अग्रपूज्य देववन्दनम् प्रथमेशं श्रीगणेशं नमामि हे गौरीनन्दनम् हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥ ३ ॥ दिव्यतेजं कविराजं योगीजन आत्मकारकम् शिवानन्दं पराद्वन्दं भावप्रद प्रेमधारकम् विघ्ननाशं दीर्घश्वासं नमामि हे गर्वमारकम् हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥ ४ ॥ प्रथमं मयूरेश्वरं द्वितीयं सिद्धिविनायकम् ततश्च भल्लालेश्वरम् अस्ति वरदाविनायकम् पंचमं चिंतामणिदेवं षष्ठं च गिरिजात्मजम् विघ्नेश्वरं महागणपतिं नमामि अष्टदेवम् हे गजानन गिरिजानन्दन रक्ष मां देव रक्ष माम् ॥ ५ ॥ तरूणी लभते वरं च प्रीत्यार्थी लभते प्रेमम् विद्यार्थी लभते विद्यां च मोक्ष्यार्थी लभते धामम् अर्थार्थी लभते अर्थं च कामार्थी लभते कामम् हे गजानन गिरिजानन्दन कृष्णदासः भजति त्वाम् ॥ ६ ॥ ॥ इति श्रीकृष्णदासः विरचित श्रीगणपति रक्षाकवचम् सम्पूर्णम् ॥