गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि
🕉️

गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि

Gananaykay Gandevatay Ganadhyakshay DheemahiThe Gananaykay Gandevatay Ganadhyakshay Dheemahi mantra praises Lord Ganesh, highlighting his attributes and significance in music and wisdom.
🕉
गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि । गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि । गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि । एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥गानचतुराय गानप्राणाय गानान्तरात्मने, गानोत्सुकाय गानमत्ताय गानोत्सुकमनसे । गुरुपूजिताय गुरुदेवताय गुरुकुलस्थायिने, गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे । गुरुदैत्यगलच्छेत्रे गुरुधर्मसदाराध्याय, गुरुपुत्रपरित्रात्रे गुरुपाखण्डखण्डकाय । गीतसाराय गीततत्त्वाय गीतगोत्राय धीमहि, गूढगुल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि । गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि, एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥ ग्रन्थगीताय ग्रन्थगेयाय ग्रन्थान्तरात्मने, गीतलीनाय गीताश्रयाय गीतवाद्यपटवे । गेयचरिताय गायकवराय गन्धर्वप्रियकृते, गायकाधीनविग्रहाय गङ्गाजलप्रणयवते । गौरीस्तनन्धयाय गौरीहृदयनन्दनाय, गौरभानुसुताय गौरीगणेश्वराय । गौरीप्रणयाय गौरीप्रवणाय गौरभावाय धीमहि, गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि । गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि, एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि । गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥