माँ जगदम्बे स्तुति
माँ जगदम्बे स्तुति
A-
A
A+
हि
EN
🕉️
माँ जगदम्बे स्तुति
Maa Durga Stuti By Daksha Prajapati
श्रीशिवमहापुराण के रुद्रसंहिता के अंतर्गत सतीखण्डः मे दक्ष प्रजापति द्वारा माँ जगदम्बा, माँ शिवा रूपा अथवा माँ दुर्गा की स्तुति। दक्ष उवाच-
Aa
Reading
शेयर करें
पसंदीदा में जोड़ें
🕉
महेशानि नमस्तुभ्यं जगदम्बे सनातनि । कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि ॥शिवा शांता महामाया योगनिद्रा जगन्मयी । या प्रोच्यते वेदविद्धिर्नमामि त्वां हितावहाम् ॥ यया धाता जगत्सृष्टी नियुक्तस्तां पुराकरोत् । तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् । तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत् । तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ रज:सत्त्वतमोरूपां सर्वकार्यकरीं सदा । त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम् ॥ यस्त्वां विचिंतयेद् देवि विद्याविद्यात्मिकां पराम् । तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता ॥ यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् । तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका ॥ ये स्तुवंति जगन्मातर्भवानीमंबिकेति च । जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति ॥ [श्रीशिवमहापुराण / रुद्रसंहिता / सतीखण्डः / 14 / 28-36]