बृहस्पति स्तोत्रं - स्कन्दपुराणे
🕉️

बृहस्पति स्तोत्रं - स्कन्दपुराणे

Brihaspati Stotra - Skand PuranThe Brihaspati Stotra from the Skand Puran is a revered mantra praising Brihaspati, the guru of gods. It highlights his wisdom and role as a celestial teacher.
🕉
॥ विनियोग मन्त्र ॥ ॐ अस्य श्रीबृहस्पति स्तोत्रस्य गृत्समद् ऋषिः, अनुष्टुप छन्दः, बृहस्पतिर्देवता, बृहस्पति प्रीत्यर्थे जपे विनियोग:गुरुर्बृहस्पतिर्जीव: सुराचार्यो विदां वरः । वागीशो धिषणो दीर्घश्मश्रुः पीताम्बरो युवा ॥1॥ सुधादृष्टिर्ग्रहाधीशो ग्रहपीडापहारकः । दयाकरः सौम्यमूर्तिः सुरार्च्यः कुड्मलद्युतिः ॥2॥ लोकपूज्यो लोकगुरुः नीतिज्ञो नीतिकारकः । तारापतिश्चाङ्गिरसो वेदवेद्यः पितामहः ॥3॥ भक्त्या बृहस्पतिं स्मृत्वा नामान्येतानि यः पठेत् । अरोगी बलवान् श्रीमान् पुत्रवान् स भवेन्नरः ॥4॥ जीवेद्दर्षशतं मत्यो पापं नश्यति । यः पूजयेत् गुरुदिने पीतगन्धाक्षताम्बरैः ॥5॥ पुष्पदीपोपहारैश्च पूजयित्वा बृहस्पतिम् । ब्रह्मणान् भोजयित्वा च पीडाशान्तिर्भवेत् गुरोः ॥6॥ ॥ इति श्री स्कन्दपुराणे बृहस्पतिस्तोत्रं सम्पूर्णम् ॥